Articles

संस्कृत भारती भाषणम्

By on April 16, 2026

प्रवीण दीक्षित

निवृत्तः पोलीस महासंचालकः

नमो नमः।

श्री गणेशाय नमः।।

ध्रुव उवाच।।

योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां संजीवयत्यखिलशक्तिधरःस्वधाम्ना।

अन्यांश्च हस्तचरणश्रवणत्वगादीन्प्राणान्नमो भगवते पुरुषाय तुभ्यम्।।

मम पिता तथा मम संस्कृत भाषायाः गुरुः पण्डित नारायणशास्त्री दीक्षितः। तस्य आदरपूर्वकं स्मरणं करोमि। नारायणशास्त्री संस्कृत पाठशालायाः प्रधान- अध्यापकः आसीत्। एकोनविंशतिशततमे षष्टितमे  अब्दे पाठशालायाः हीरक महोत्सवे मध्यप्रदेशस्य राज्यपालः हरिभाऊ पाटसकर महोदयः अतिथिः आसीत्। तदा टिळक स्मारक मंदिरे मया मम मित्रेण दिवेकर नाम्ना बालकेन सह संस्कृत भाषायां संवादः सादरीकृतः। तथैव पण्डित वसंतराय गाडगीळ महोदयस्य स्मरणं करोमि। सः नित्यम् संस्कृते एव भाषयतिस्म। पुण्यपत्तने प्रति रविवासरे आनंदाश्रमे सायंकाले चतुर्वादने एकायाः  सभायाः आयोजनं आसीत् । तत्र सर्वे वक्तारः केवलं संस्कृते एव भाषणं अकुर्वन्। अधुना सा सभा तत्र अस्ति अथवा कथं, अहं न जानामि। पण्डित वसंतराय गाडगीळ महोदयेन आकाशवाण्याम् संस्कृत-वार्तापत्र प्रारंभाय दिल्लीनगरे प्रचुराणि कष्टानि कृतानि। सद्यः प्रातःकाले तथा सायंकाले अपि तत् संस्कृतवार्तापत्रं विश्वे सर्वत्र  News on AIR app सहाय्येन श्रोतुम् शक्यम्। दूरदर्शने अपि प्रातः सप्तवादने एकम् संस्कृत श्लोकम् कथयन्ति। सायंकाले संस्कृत वार्तावलिः प्रकाशयते। प्रति शुक्रवासरे प्रातः सार्धनवतः संस्कृते विविध विषयान् गृहीत्वा पण्डिताः आकाशवाणी पुणे केन्द्रे भाषणं कुर्वन्ति। एतै; अनेकैः उपायै; व्यवहारे संस्कृतभाषा लोकप्रिया भवति। प्रधानमंत्री नरेन्द्र मोदी महोदयः अपि स्वे भाषणे तथा नमो अ‍ॅप माध्यमद्वारा संस्कृतश्लोकं तथा तस्य अर्थं कथयति।  संस्कृत भारती अपि संस्कृत सम्भाषणस्य उत्तेजनार्थम् निरंतरतः प्रयत्नं करोति। तस्य सम्भाषणवर्गस्य अद्य समापनदिनः। वर्गे समाप्ते अपि संभाषणम् न समाप्तम्, भवद्भिः प्रतिदिनम् संस्कृते संभाषणम् चिन्तनं च अवश्यम् कर्तव्यम्। संस्कृत भारती अध्यक्षः डॉ सिधये महोदयः, आदरणीया भगिनी डॉ सुनन्दा आगाशे महोदया तथा भवन्तः सर्वे अभिनन्दनीयाः। भारतस्य आत्मनिर्भारणार्थं भारतस्य संस्कृतिः आवश्यका। संस्कृतेः संस्कृतभाषा प्राणाः सन्ति। सर्वे प्रान्ताः संस्कृतस्य आदरं कुर्वन्ति। संस्कृत भाषा ज्ञान -विज्ञान भाण्डारम्। संस्कृते उपनिषदानि, रामायणम्, भागवतम्, चाणक्य-नीतिः तथा अन्ये बहवः ग्रन्थाः जीवन-रहस्यम् स्पष्टयन्ति। यदुक्तम्

भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती।

तस्माद्धि काव्यं मधुरं तस्मादपि सुभाषितम्।।

तथा च

अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति ।

व्यतो वृद्धिमायाति क्षयमायाति संचयात्।।

चर्पटपंजरिकास्तोत्रे आचार्यः कथयति

गेयं गीतानामसहस्रं ध्येयं श्रीपतिरूपमजस्रं।

अतः प्रतिदिनं गीता-अध्यायः, तथा विष्णुसहस्रनामस्तोत्रं पठनम् ।

शरीरमाद्यं खलु धर्मसाधनम्। प्रतिदिनम् सूर्यनमस्कारान्, योगासनानि, तथा प्राणायामम् उत्साहेन कर्तव्यम्। चित्तप्रसादे सर्वं कुशलम्। अधुना बहवः जनाः मानसिक आरोग्यस्य अभावात् पीडिताः। आचार्यः चित्तप्रसादम् स्तोत्रे उपदेशं करोति

यमेषु निरतो यस्तु नियमेषु च यत्नतः।

विवेकिनस्तस्य चित्तं प्रसादं अधिगच्छति।

एतत् स्तोत्रं प्रतिदिनं स्मरणीयम्।

 

         सायबरअपराधस्य विषये किञ्चित् वदामि। अधुना भ्रमणध्वनि द्वारा सायबरअपराधेषु प्रचंडा व्रृद्धिः। मोहः. प्रमादः तथा भीतिः तस्य कारणानि। तत्र किं उपायः कर्तव्यः? भ्रमणध्वने True Caller app अवारोपणम्। यदि कोऽपि युष्मेभ्यः स्मरति, तर्हि त्वरितं प्रत्युत्तरं न देयम्। यदि कोऽपि आ्रर्थिक अपराधः भवति, तर्हि 1930 (एकोनविंशः त्रिंशः) क्रमांकं स्मरणम् तथा निवेदनीयम्।

यूयं बहूनि संस्कृत-स्तोत्राणि स्मरथ तथा पठथ। किंतु तेषां अर्थम् विना। अतः मम पत्नी अरुंधती एकः नवीनः उपक्रमः अकरोत्। anuvadparijat.blogspot.com संकेतस्थले बहूनि स्तोत्राणि तथा तेषां मराठी भाषायां समवृत्तेन भावानुवादः पद्यानुवादेन विषदीकृतः। अतः भवद्भिः सर्वद्भिः एतत् संकेतस्थलं अवश्यं वारंवारं द्रष्टव्यम् परिशीलनम् च। इति मम प्रार्थना।

सर्वेषां धन्यवादः इति शम्।

सर्वे भवन्तु सुखिनः

सर्वे सन्तु निरामयाः।

सर्वे भद्राणि पश्यन्तु,

मा कश्चित् दुःखभाग् भवेत्।।

श्रीकृष्णार्पणमस्तु।

TAGS
RELATED POSTS